आङ् पूर्वस्य ह्वयतेर् धातोः सम्प्रसारणम्, अप्प्रत्ययो, वृद्धिश्च निपात्यते निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानम् उदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस् तत्र हि पानाय पशव आहूयन्ते। निपानम् इति किम्? आह्वायः।
निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे
३।३।११७ ल्युट्। कस्मादाहावशब्द उदकाधारे वत्र्तत इत्याह-- "तत्र हि" इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति॥